श्रवणम्

9.109.7
पव᳚स्व सोम द्यु॒म्नी सु᳚धा॒रो म॒हामवी᳚ना॒मनु᳚ पू॒र्व्यः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । सो॒म॒ । द्यु॒म्नी । सु॒॑धा॒रः । म॒हाम् । अवी᳚नाम् । अनु᳚ । पू॒र्व्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोम द्युम्नी । द्युम्नं द्योततेर्यशोवान्नंवेतियास्कः । अन्नवान् यशस्वी वा सुधारः शोभ नधारायुक्तः पूर्व्यः पुरातनस्त्वं महां महांतं अवीनां रोम्णां रोमभ्यं सकाशादनुक्रमेण पवस्व क्षर ॥ ७ ॥