श्रवणम्

9.109.3
ए॒वामृता᳚य म॒हे क्षया᳚य॒ स शु॒क्रो अ᳚र्ष दि॒व्यः पी॒यूषः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । अ॒मृता᳚य । म॒हे । क्षया᳚य । सः । शु॒क्रः । अ॒र्ष॒ । दि॒व्यः । पी॒यूषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम शुक्रोदीप्तः दिव्योदिविभवः पीयूषः देवैः पातव्यः सत्वं अमृताय अमरणाय महे महते क्षयाय निवासायच एवार्ष एवं पवस्व क्षर ॥ ३ ॥