श्रवणम्

9.109.17
स वा॒ज्य᳚क्षाः स॒हस्र᳚रेता अ॒द्भिर्मृ᳚जा॒नो गोभि᳚ः श्रीणा॒नः ॥
▶ पदपाठः (Word-by-word)
सः । वा॒जी । अ॒क्षा॒रिति᳚ । स॒हस्र᳚॑रेताः । अ॒त्॑भिः । मृ॒जा॒नः । गोभिः᳚ । श्री॒णा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजी वेगवान् बलवान् वा ससोमः अक्षाः क्षरति । कीदृशः सहस्ररेताः बहुरेतस्कः बहूदकः अद्भिर्वसतीवरीभिः मृजानोमृज्यमानोगोभिर्गोविकारैः क्षीरादिभिः श्रीणानः श्रीय- माणः ॥ १७ ॥