पिब᳚न्त्यस्य॒ विश्वे᳚ दे॒वासो॒ गोभि᳚ः श्री॒तस्य॒ नृभि᳚ः सु॒तस्य᳚ ॥
पदपाठः (Word-by-word)
पिब᳚न्ति । अ॒स्य॒ । विश्वे᳚ । दे॒वासः᳚ । गोभिः᳚ । श्री॒तस्य᳚ । नृ॑भिः᳚ । सु॒तस्य᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वे सर्वे देवासोदेवाः गोभिर्गोविकारैः श्रीतस्य मिश्रितं नृभिः कर्मनेतृभीरृत्विग्भिः सुतस्याभिषुतस्यामुं सोमं पिबन्ति । द्वितीयार्थे षष्ठ्यः ॥ १५ ॥