श्रवणम्

9.109.20
अ॒ञ्जन्त्ये᳚नं॒ मध्वो॒ रसे॒नेन्द्रा᳚य॒ वृष्ण॒ इन्दुं॒ मदा᳚य ॥
▶ पदपाठः (Word-by-word)
अ॒ञ्जन्ति᳚ । ए॒न॒म् । मध्वः᳚ । रसे᳚न । इन्द्रा᳚य । वृष्णे᳚ । इन्दु᳚म् । मदा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृष्णे कामानां वर्षित्रे इन्द्राय इन्द्रस्य मदाय मदार्थं मध्वोमधुनोरसेन गव्येन एन- मिन्दुं सोममृत्विजो अंजन्ति संयोजयन्ति ॥ २० ॥