प्र सो᳚म या॒हीन्द्र᳚स्य कु॒क्षा नृभि᳚र्येमा॒नो अद्रि᳚भिः सु॒तः ॥
पदपाठः (Word-by-word)
प्र । सो॒म॒ । या॒हि॒ । इन्द्र᳚स्य । कु॒क्षा । नृ॑भिः᳚ । ये॒मा॒नः । अद्रि᳚॑भिः । सु॒तः ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम नृभिरृत्विग्भिः येमानोनियम्यमानः अद्रिभिर्ग्रावभिः सुतोभिषुतस्त्वं इन्द्रस्य कुक्षा सप्तम्याडादेशः कुक्षौ उदरभूते कलशॆवा प्रयाहि प्रकर्षेण गच्छ ॥ १८ ॥