श्रवणम्

9.109.6
दि॒वो ध॒र्तासि᳚ शु॒क्रः पी॒यूषः᳚ स॒त्ये विध᳚र्मन्वा॒जी प᳚वस्व ॥
▶ पदपाठः (Word-by-word)
दि॒वः । ध॒र्ता । अ॒सि॒ । शु॒क्रः । पी॒यूषः᳚ । स॒त्ये । वि॑ध᳚र्मन् । वा॒जी । प॒व॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम शुक्रोदीप्तः पीयूषः पातव्यस्त्वं दिवोद्युलोकस्य धर्ता धारकोसि । वाजी बल- वान् सत्वं सत्ये सत्यभूते विधर्मन् विधर्मणि विविधकर्माणः ऋत्विजोयस्मिन् यद्वा विवि धसोमादिहविषां धारकेस्मिन्यज्ञे पवस्व क्षर ॥ ६ ॥