पव᳚स्व सोम म॒हान्त्स᳚मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम᳚ ॥
पदपाठः (Word-by-word)
पव᳚स्व । सो॒म॒ । म॒हान् । स॒मु॒द्रः । पि॒ता । दे॒वाना᳚म् । विश्वा᳚ । अ॒भि । धाम᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम महान् देवेभ्योदीयमानत्वेन महत्त्वयुक्तः समुद्रः समुन्दनः यस्मात् समुद्रवन्ति रसास्तादृशः पिता सर्वेषां पालयिता त्वं देवानां विश्वा विश्वानि सर्वाणि धाम धामानि शरीराणि अभिलक्ष्य पवस्व ॥ ४ ॥