श्रवणम्

9.109.21
दे॒वेभ्य᳚स्त्वा॒ वृथा॒ पाज᳚से॒॑पो वसा᳚नं॒ हरिं᳚ मृजन्ति ॥
▶ पदपाठः (Word-by-word)
दे॒वेभ्यः᳚ । त्वा॒ । वृथा᳚ । पाज᳚से । अ॒पः । वसा᳚नम् । हरि᳚म् । मृ॒ज॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अपः उदकानि वसानमाच्छादयन्तं हरिं हरितवर्णं त्वा त्वां वृथा अनाया- सेन ऋत्विजोमृजन्ति शोधयन्ति । किमर्थं देवेभ्यः देवानां पानार्थं पाजसे तेषां बलार्थं ॥ २१ ॥