इन्दु᳚ः पविष्ट॒ चारु॒र्मदा᳚या॒पामु॒पस्थे᳚ क॒विर्भगा᳚य ॥
पदपाठः (Word-by-word)
इन्दुः᳚ । प॒वि॒ष्ट॒ । चारुः᳚ । मदा᳚य । अ॒पाम् । उ॒प॑स्थे᳚ । क॒विः । भगा᳚य ॥
सायणभाष्यम् (Sayana Commentary)
चारुः कल्याणरूपः कविः क्रान्तप्रज्ञः इन्दुः अपामुद्कानामुपस्थे उपस्थाने अन्तरिक्षे पवित्रे वा मदाय मदार्थं भगाय भजनीयधनार्थंच पविष्ट पवते ॥ १३ ॥