श्रवणम्

9.109.2
इन्द्र᳚स्ते सोम सु॒तस्य᳚ पेया॒ः क्रत्वे॒ दक्षा᳚य॒ विश्वे᳚ च दे॒वाः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । ते॒ । सो॒म॒ । सु॒तस्य᳚ । पे॒याः॒ । क्रत्वे᳚ । दक्षा᳚य । विश्वे᳚ । च॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सुतस्याभिषुतस्य ते तव स्वं भागं इन्द्रः पेयाः पेयात् पिबतु पातेराशीर्लि- ङि रूपं पुरुषव्यत्ययः । किमर्थं क्रत्वे क्रतवे प्रज्ञानाय दक्षाय बलायच । किंच अमी सर्वे विश्वे देवाश्च त्वदीयमंशं पिबंतु ॥ २ ॥