श्रवणम्

9.109.8
नृभि᳚र्येमा॒नो ज᳚ज्ञा॒नः पू॒तः क्षर॒द्विश्वा᳚नि म॒न्द्रः स्व॒र्वित् ॥
▶ पदपाठः (Word-by-word)
नृ॑भिः᳚ । ये॒मा॒नः । ज॒ज्ञा॒नः । पू॒तः । क्षर᳚त् । विश्वा᳚नि । म॒न्द्रः । स्वः॒॑वित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृभिः कर्मनेतृभिरृत्विग्भिः येमानोनियम्यमानः जज्ञानः जायमानः पूतः पवित्रेण शो- धितः मन्द्रोमोदमानः स्वर्वित् सर्वज्ञः एतादृशः सोमः विश्वानि सर्वाणि धनान्यस्मभ्यं क्षरत् क्षरतु ददातु ॥ ८ ॥