श्रवणम्

9.96.1
प्र से᳚ना॒नीः शूरो॒ अग्रे॒ रथा᳚नां ग॒व्यन्ने᳚ति॒ हर्ष᳚ते अस्य॒ सेना᳚ ।
भ॒द्रान्कृ॒ण्वन्नि᳚न्द्रह॒वान्त्सखि᳚भ्य॒ आ सोमो॒ वस्त्रा᳚ रभ॒सानि᳚ दत्ते ॥
▶ पदपाठः (Word-by-word)
प्र । से॒ना॒॑नीः । शूरः᳚ । अग्रे᳚ । रथा᳚नाम् । ग॒व्यन् । ए॒ति॒ । हर्ष᳚ते । अ॒स्य॒ । सेना᳚ ।
भ॒द्रान् । कृ॒ण्वन् । इ॒न्द्र॒॑ह॒वान् । सखि᳚॑भ्यः । आ । सोमः᳚ । वस्त्रा᳚ । र॒भ॒सानि᳚ । द॒त्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सेनानीः सेनानामग्रे उपनेताशूरः शात्रूणांबाधकः सोमः गव्यन् शत्रूणांगाइच्छन् यद्वा यजमानानां पश्वादिकमिच्छन् रथानामग्रे रथानांपुरतः प्रैति प्रकर्षेण संग्रामं गच्छति । अस्यसोमस्य सेनाच हर्षते हृष्यति वाक्यभेदादनिघातः । किंच सखीभ्यः समानख्यानेभ्यः यजमानेभ्यः इन्द्रहवान् तैःकृतान् इन्द्रस्याह्वानानि भद्रान् कल्याणानि यथार्थानिकृण्वन् कुर्वन् आहूतोहीन्द्रः सोमंपीत्वा कामान् प्रयच्छतीति । रभसानि इन्द्रस्य वेगेनागमनेनि- मित्तानि वस्त्रा वस्त्राणि आच्छादकानि पयः प्रभृतीन्याश्रयणानि आदत्ते आगृह्णाति ॥ १ ॥