ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क᳚वी॒नामृषि॒र्विप्रा᳚णां महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नो गृध्रा᳚णां॒ स्वधि᳚ति॒र्वना᳚नां॒ सोमः᳚ प॒वित्र॒मत्ये᳚ति॒ रेभ᳚न् ॥
श्ये॒नो गृध्रा᳚णां॒ स्वधि᳚ति॒र्वना᳚नां॒ सोमः᳚ प॒वित्र॒मत्ये᳚ति॒ रेभ᳚न् ॥
पदपाठः (Word-by-word)
ब्र॒ह्मा । दे॒वाना᳚म् । प॒द॒॑वीः । क॒वी॒नाम् । ऋषिः᳚ । विप्रा᳚णाम् । म॒हि॒षः । मृ॒गाणा᳚म् ।
श्ये॒नः । गृध्रा᳚णाम् । स्व॑धि᳚तिः । वना᳚नाम् । सोमः᳚ । प॒वित्र᳚म् । अति᳚ । ए॒ति॒ । रेभ᳚न् ॥
श्ये॒नः । गृध्रा᳚णाम् । स्व॑धि᳚तिः । वना᳚नाम् । सोमः᳚ । प॒वित्र᳚म् । अति᳚ । ए॒ति॒ । रेभ᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
सोमएवंरूपोभवति देवानां स्तोत्रकारिणामृत्विजां ब्रह्मा ब्रह्माख्यर्त्विक् स्थानीयोभवति यद्वा देवानां द्योतमानानामिन्द्रादीनां ब्रह्मा राजाभवति । तथा कवीनां क्रान्तप्रज्ञानां पदवीः स्खलन्ति पदानि साधुत्वेन योयोजयति सपदवीः । वीगत्यादिष्वित्येतस्मात् क्विपि रूपम् । तथा विप्राणां मेधाविनांमध्ये ऋषिर्भवति । यः परोक्षंपश्यति सऋषिः । ऋषिर्दर्श- नादिति । मृगाणां महिषोभवति महिषाख्योबलवान् राजाभवति । तथा गृध्राणां पक्षि- विशेषाणां श्येनः शंसनीयः पक्षिराजोभवति । वनानां वनतिर्हिसाकर्मा । हिंसकानां छेदका- नांमध्ये स्वधितिः एतन्नामकः छेदकोसि । एवंप्रभावः सोमः रेभन् शब्दायमानःसन् पवि त्रमूर्णास्तुकेन कृतमत्येति अतिगच्छति ॥ ६ ॥