पव᳚स्व सोम॒ मधु᳚मा{4} ऋ॒तावा॒पो वसा᳚नो॒ अधि॒ सानो॒ अव्ये᳚ ।
अव॒ द्रोणा᳚नि घृ॒तवा᳚न्ति सीद म॒दिन्त᳚मो मत्स॒र इ᳚न्द्र॒पानः᳚ ॥
अव॒ द्रोणा᳚नि घृ॒तवा᳚न्ति सीद म॒दिन्त᳚मो मत्स॒र इ᳚न्द्र॒पानः᳚ ॥
पदपाठः (Word-by-word)
पव᳚स्व । सो॒म॒ । मधु᳚॑मान् । ऋ॒त॑वा᳚ । अ॒पः । वसा᳚नः । अधि᳚ । सानौ᳚ । अव्ये᳚ ।
अव᳚ । द्रोणा᳚नि । घृ॒त॑व᳚न्ति । सी॒द॒ । म॒दिन्॑त᳚मः । म॒त्स॒रः । इ॒न्द्र॒॑पानः᳚ ॥
अव᳚ । द्रोणा᳚नि । घृ॒त॑व᳚न्ति । सी॒द॒ । म॒दिन्॑त᳚मः । म॒त्स॒रः । इ॒न्द्र॒॑पानः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम मधुमान् मदकररसोपेतः ऋतावा यज्ञवान् छन्दसीवनिपावितिवनिप् मत्वर्थी यः तादृशस्त्वं अपोवसतीवरीरेकधनाश्च वसानः आच्छादयन् अधि अधिकं सानौ समु- च्छ्रिते अव्ये अविमये पवित्रे पवस्व क्षर । ततोमदिन्तमः अतिशयेनमदकरः इन्द्रपानः इन्द्रेणपातव्योमत्सरोमादयिता सोमः घृतवन्ति उदकवन्ति द्रोणानि द्रोणकलशान् अव- सीद अवतिष्ठस्व ॥ १३ ॥