त्वया॒ हि नः᳚ पि॒तरः᳚ सोम॒ पूर्वे॒ कर्मा᳚णि च॒क्रुः प᳚वमान॒ धीरा᳚ः ।
व॒न्वन्नवा᳚तः परि॒धी{4}रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा᳚ भवा नः ॥
व॒न्वन्नवा᳚तः परि॒धी{4}रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा᳚ भवा नः ॥
पदपाठः (Word-by-word)
त्वया᳚ । हि । नः॒ । पि॒तरः᳚ । सो॒म॒ । पूर्वे᳚ । कर्मा᳚णि । च॒क्रुः । प॒व॒मा॒न॒ । धीराः᳚ ।
व॒न्वन् । अवा᳚तः । प॒रि॒॑धीन् । अप᳚ । ऊ॒र्णु॒ । वी॒रेभिः᳚ । अश्वैः᳚ । म॒घ॑वा᳚ । भ॒व॒ । नः॒ ॥
व॒न्वन् । अवा᳚तः । प॒रि॒॑धीन् । अप᳚ । ऊ॒र्णु॒ । वी॒रेभिः᳚ । अश्वैः᳚ । म॒घ॑वा᳚ । भ॒व॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान पूयमानसोम धीराः कर्मणिकुशलाः प्राज्ञाः नोस्माकं पितरः पूर्वे पुरा- तनाः अंगिरसस्त्वया हिरवधारणे त्वयासहायेनैवकर्माणि अग्निष्टोमादीनि चक्रुः कृतवन्तः । किंच वन्वन् स्तोतॄन् संभजन् । यद्वा वनतिर्हिसार्थः । शत्रून् हिंसन् अवातः तैरभिगतस्त्वं वीरेभिर्वेगवद्भिः अश्वैः व्यापकैः परिधीन् परिधीयते एभिः सर्वमिति परिधयोराक्षसाः तान् अपोर्णु अपोर्णुहि अपच्छादय जहीतियावत् । ऊर्णोतेर्लोटिछान्दसोहेर्लुक् । एतादृश- स्त्वं नोस्माकं मघवा इन्द्रोभव भूयाः । पुत्रादियुक्तं धनं प्रयच्छेत्यर्थः ॥ ११ ॥