श्रवणम्

9.96.18
ऋषि᳚मना॒ य ऋ᳚षि॒कृत्स्व॒र्षाः स॒हस्र᳚णीथः पद॒वीः क᳚वी॒नाम् ।
तृ॒तीयं॒ धाम᳚ महि॒षः सिषा᳚स॒न्त्सोमो᳚ वि॒राज॒मनु᳚ राजति॒ ष्टुप् ॥
▶ पदपाठः (Word-by-word)
ऋषि᳚॑मनाः । यः । ऋ॒षि॒॑कृत् । स्वः॒॑साः । स॒हस्र᳚॑नीथः । प॒द॒॑वीः । क॒वी॒नाम् ।
तृ॒तीय᳚म् । धाम᳚ । म॒हि॒षः । सिसा᳚सन् । सोमः᳚ । वि॒॑राज᳚म् । अनु᳚ । रा॒ज॒ति॒ । स्तुप् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिमनाः सर्वदर्शनशीलमनस्कः अतएव ऋषिकृत् सर्वस्य दर्शनकर्ता प्रकाशनस्यकर्ता स्वर्षाः सर्वस्यसूर्यस्य वा संभक्ता सहस्रणीथः नीथा स्तुतिः बहुविधस्तुतिकः कवीनां क्रा- न्तप्रज्ञानांमध्ये पदवीः स्खलतांपदानां साधुत्वेन संयोजयिता य्ः सोमोविद्यते समहिषो महान् पूज्योवा सोमः तृतीयंधाम द्युलोकं सिषासन् संभक्तुमिच्छन् स्तुप् स्तूयमानःसन् विराजं विशेषेणराजन्तं दीप्यमानमिन्द्रं अनुराजति प्रकाशयति ॥ १८ ॥