स नो᳚ देव दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर᳚स इन्द्र॒पानः᳚ ।
कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो᳚ वरिवस्या पुना॒नः ॥
कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो᳚ वरिवस्या पुना॒नः ॥
पदपाठः (Word-by-word)
सः । नः॒ । दे॒व॒ । दे॒व॑ता᳚ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर᳚से । इ॒न्द्र॒॑पानः᳚ ।
कृ॒ण्वन् । अ॒पः । व॒र्षय᳚न् । द्याम् । उ॒त । इ॒माम् । उ॒रोः । आ । नः॒ । व॒रि॒व॒स्य॒ । पु॒ना॒नः ॥
कृ॒ण्वन् । अ॒पः । व॒र्षय᳚न् । द्याम् । उ॒त । इ॒माम् । उ॒रोः । आ । नः॒ । व॒रि॒व॒स्य॒ । पु॒ना॒नः ॥
सायणभाष्यम् (Sayana Commentary)
हे देव द्योतमान हे सोम सतादृश इन्द्रपानः इन्द्रेणपातव्यस्त्वं नोस्माकं स्वभूते देव- ताते देवैस्तते वितते यज्ञे महे महते प्सरसे भक्षणाय इन्द्रस्य पानाय पवस्व ग्रहादिषु- क्षर । किंच अपउदकानि कृण्वन् कुर्वन् उतापिच द्यामिमां द्यावापृथिव्यौ वर्षयन् भूमिं पर्जन्यरूपेण तर्पयति द्युलोकमग्निरूपेणेति । भूमिंपर्जन्याजिन्वंतिदिवंजिन्वंत्यग्नयइतिश्रव- णात् । उरोः विस्तीर्णादन्तरिक्षात् आगच्छंस्त्वं पुनानः पूयमानःसन् नोस्मान् वरिवस्य धनादिप्रदानेन परिचरेति ॥ ३ ॥