वृ॒ष्टिं दि॒वः श॒तधा᳚रः पवस्व सहस्र॒सा वा᳚ज॒युर्दे॒ववी᳚तौ ।
सं सिन्धु᳚भिः क॒लशे᳚ वावशा॒नः समु॒स्रिया᳚भिः प्रति॒रन्न॒ आयु᳚ः ॥
सं सिन्धु᳚भिः क॒लशे᳚ वावशा॒नः समु॒स्रिया᳚भिः प्रति॒रन्न॒ आयु᳚ः ॥
पदपाठः (Word-by-word)
वृ॒ष्टिम् । दि॒वः । श॒त॑धा᳚रः । प॒व॒स्व॒ । स॒ह॒स्र॒॑साः । वा॒ज॒॑युः । दे॒व॑वी᳚तौ ।
सम् । सिन्धु᳚॑भिः । क॒लशे᳚ । वा॒व॒शा॒नः । सम् । उ॒स्रिया᳚भिः । प्र॒॑ति॒रन् । नः॒ । आयुः᳚ ॥
सम् । सिन्धु᳚॑भिः । क॒लशे᳚ । वा॒व॒शा॒नः । सम् । उ॒स्रिया᳚भिः । प्र॒॑ति॒रन् । नः॒ । आयुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेसोम शतधारः बहुधोदकधारोपेतस्त्वं दिवोन्तरिक्षादादित्याद्वा वृष्टिंपवस्व कुरु । यद्वा शतधारः बहुधात्मीयधारोपेतस्त्वं दिवोद्योतमानात् पवित्रात् वृष्टिमविच्छिन्नधारां पवस्व पात्रेषुकुरु । कीदृशः देववीतौ देवानांवीतिः हविर्भक्षणं यस्मिन् सदेववीतिर्यज्ञः । तस्मिन् सहस्रसाः यजमानानां सहस्रस्य धनस्यदाता वाजयुः तेषामन्नंकामयमानस्त्वं सिन्धुभिः स्यन्दमानाभिः वसतीवरीभिः कलशेद्रोणाभिधानेसंवावशानः संगच्छस्व । तथा- त्वं नोस्माकमायुर्जीवनं प्रतिरन् वर्धयन् उस्रियाभिः गोविकारैः क्षीरादिभिश्च कलशे संग- च्छस्व ॥ १४ ॥