श्रवणम्

9.96.2
सम᳚स्य॒ हरिं॒ हर᳚यो मृजन्त्यश्वह॒यैरनि᳚शितं॒ नमो᳚भिः ।
आ ति᳚ष्ठति॒ रथ॒मिन्द्र᳚स्य॒ सखा᳚ वि॒द्वा{4} ए᳚ना सुम॒तिं या॒त्यच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒स्य॒ । हरि᳚म् । हर᳚यः । मृ॒ज॒न्ति॒ । अ॒श्व॒॑ह॒यैः । अनि᳚॑शितम् । नमः᳚॑भिः ।
आ । ति॒ष्ठ॒ति॒ । रथ᳚म् । इन्द्र᳚स्य । सखा᳚ । वि॒द्वान् । ए॒न॒ । सु॒॑म॒तिम् । या॒ति॒ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरयः हरंत्यभिषुण्वन्ति सोममित्यृत्विजोंगुलयोवा हरिं हरितवर्णमस्य सोमस्य कारण मंशुं संमृजन्ति सम्यगभिषुण्वंति । ततः सोमः नमोभिः नामयितृभिः अश्वहयैर्व्याप्तैरपि अनिशितं असंस्कृतं अयुक्तमननुगतं रथं रमणसाधनमात्मीयं दशापवित्रं आतिष्ठति आसीदति । अनन्तरं इन्द्रस्य सखा सखिभूतः विद्वान् प्राज्ञः सोमः एना एतेन रथेन पवित्रेण सुमतिं शोभमस्तुतिकं स्तोतारं अच्छयाति अभिगच्छति अस्मिन् काले तेनक्रिय- माणां स्तुतिमभिगच्छतीत्यर्थः ॥ २ ॥