स म᳚त्स॒रः पृ॒त्सु व॒न्वन्नवा᳚तः स॒हस्र᳚रेता अ॒भि वाज᳚मर्ष ।
इन्द्रा᳚येन्दो॒ पव᳚मानो मनी॒ष्यं१॒᳚शोरू॒र्मिमी᳚रय॒ गा इ᳚ष॒ण्यन् ॥
इन्द्रा᳚येन्दो॒ पव᳚मानो मनी॒ष्यं१॒᳚शोरू॒र्मिमी᳚रय॒ गा इ᳚ष॒ण्यन् ॥
पदपाठः (Word-by-word)
सः । म॒त्स॒रः । पृ॒त्॑सु । व॒न्वन् । अवा᳚तः । स॒हस्र᳚॑रेताः । अ॒भि । वाज᳚म् । अ॒र्ष॒ ।
इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । पव᳚मानः । म॒नी॒षी । अं॒शोः । ऊ॒र्मिम् । ई॒र॒य॒ । गाः । इ॒ष॒ण्यन् ॥
इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । पव᳚मानः । म॒नी॒षी । अं॒शोः । ऊ॒र्मिम् । ई॒र॒य॒ । गाः । इ॒ष॒ण्यन् ॥
सायणभाष्यम् (Sayana Commentary)
मत्सरोमदकरः पृत्सुसंग्रामेषु वन्वन् शत्रून् हिंसन् अतएव अवातः अन्यैर्गन्तुमशक्यः सहस्ररेताः सहस्रोदकधारोपेतः ससोमः वाजं शत्रूणांबलमभ्यर्ष अभीगच्छ । हे इन्दो सोम पवमानः पूयमानः मनीषी प्राज्ञस्त्वं गाइषण्यन् शब्दान् प्रेरयन् । यद्वा यजमाना- नां यज्ञसाधनभूताः गाःप्रेरयन् इन्द्राय इन्द्रार्थं अंशोरभिषूयमाणस्यसोमस्य ऊर्मिं संघ- मीरय प्रेरय ॥ ८ ॥