श्रवणम्

9.96.23 समानपद
अ॒प॒घ्नन्ने᳚षि पवमान॒ शत्रू᳚न्प्रि॒यां न जा॒रो अ॒भिगी᳚त॒ इन्दु᳚ः ।
सीद॒न्वने᳚षु शकु॒नो न पत्वा॒ सोमः᳚ पुना॒नः क॒लशे᳚षु॒ सत्ता᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒प॒॑घ्नन् । ए॒षि॒ । प॒व॒मा॒न॒ । शत्रू᳚न् । प्रि॒याम् । न । जा॒रः । अ॒भि॑गी᳚तः । इन्दुः᳚ ।
सीद᳚न् । वने᳚षु । श॒कु॒नः । न । पत्वा᳚ । सोमः᳚ । पु॒ना॒नः । क॒लशे᳚षु । सत्ता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमान सोम अभिगीतः सोतृभिरभिष्टुतः इन्दुः पात्रेषु क्षरन् त्वंशत्रूनप- घ्नन् अपहिंसन् एषि आगच्छसि । कथमिव जारः प्रियांन प्रियतमामसतींस्त्रीं अन्यान् बाधमानःसन् यथाभिगच्छति तद्वत् । पत्वा पतनशीलः शकुनोन यथा शकुनोवनेषु वृक्षेषु सीदन् भवति तद्वत् पतनशीलः पुनानः पूयमानः सोमः कलशेषु सत्ता सदनशी- लो निषण्णोभवति । सदेस्ताच्छीलिकस्तृन् एकाचइतीट्प्रतिषेधः ॥ २३ ॥