श्रवणम्

9.96.22 समानपद
प्रास्य॒ धारा᳚ बृह॒तीर᳚सृग्रन्न॒क्तो गोभि᳚ः क॒लशा{4}॒ आ वि᳚वेश ।
साम᳚ कृ॒ण्वन्त्सा᳚म॒न्यो᳚ विप॒श्चित्क्रन्द᳚न्नेत्य॒भि सख्यु॒र्न जा॒मिम् ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒स्य॒ । धाराः᳚ । बृ॒ह॒तीः । अ॒सृ॒ग्र॒न् । अ॒क्तः । गोभिः᳚ । क॒लशा᳚न् । आ । वि॒वे॒श॒ ।
साम᳚ । कृ॒ण्वन् । सा॒म॒न्यः᳚ । वि॒पः॒॑चित् । क्रन्द᳚न् । ए॒ति॒ । अ॒भि । सख्युः᳚ । न । जा॒मिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य सोमस्य बृहतीर्बृहत्योमहत्योधाराः प्रासृग्रन् प्रसृज्यन्ते सृजेः कर्मार्थेलङि व्यत्य- येन झेरनादेशः बहुलंछन्दसीति रुडागमः । ततः सोयंसोमः गोभिर्गोविकारैः क्षीरादिभिः अक्तः सन् कलशान् द्रोणाभिधानान् आविवेश आविशति । साम सामानि कृण्वन् कुर्वन् सोमः सामन्यः सामगानकुशलः सुष्ठुशब्दायमानइत्यर्थः विपश्चित् सर्वंजानानः सोमः क्रन्दन् देवानाह्वयन् अभ्येति ग्रहादीनि त्वरया अभिगच्छति । तत्रदृष्टान्तः—सख्युर्न सख्युर्जामिं जायां यथा इतरोलंपटोवेगेनाभिगच्छति तद्वत् ॥ २२ ॥