श्रवणम्

9.96.16
स्वा॒यु॒धः सो॒तृभि᳚ः पू॒यमा᳚नो॒॑भ्य᳚र्ष॒ गुह्यं॒ चारु॒ नाम᳚ ।
अ॒भि वाजं॒ सप्ति᳚रिव श्रव॒स्याभि वा॒युम॒भि गा दे᳚व सोम ॥
▶ पदपाठः (Word-by-word)
सु॒॑आ॒यु॒धः । सो॒तृ॑भिः᳚ । पू॒यमा᳚नः । अ॒भि । अ॒र्ष॒ । गुह्य᳚म् । चारु᳚ । नाम᳚ ।
अ॒भि । वाज᳚म् । सप्तिः᳚॑इव । श्र॒व॒स्या । अ॒भि । वा॒युम् । अ॒भि । गाः । दे॒व॒ । सो॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वायुधः शोभनायुधोपेतः । यद्वा यज्ञे स्फ्यकपालादीनि दशायुधानिसन्ति तद्वान् सोतृ भिरभिजुण्वद्भिः पूयमानस्त्वं गुह्यं गुहायांनिहितं चारु कमनीयंनाम त्वदीयं रसात्मकं- शरीरं स्तुतिभिः सहाभ्यर्ष कलशादीन्यभिगमय । किंच सप्तिरिव अश्वइव वर्तमानस्त्वं श्रवस्या । सुपांसुलुगिति सप्तम्याआजादेशः । अस्मदीयायामन्नेच्छायां वाजं अन्नमस्मभ्य मभिगमय । अपिच हेदेवस्तोतव्य हेसोम वायुं प्राणं जीवनं अभिगमय गाः पशूंश्च अस्म भ्यमभिगमय ॥ १६ ॥