अजी᳚त॒ये॑ह᳚तये पवस्व स्व॒स्तये᳚ स॒र्वता᳚तये बृह॒ते ।
तदु᳚शन्ति॒ विश्व᳚ इ॒मे सखा᳚य॒स्तद॒हं व᳚श्मि पवमान सोम ॥
तदु᳚शन्ति॒ विश्व᳚ इ॒मे सखा᳚य॒स्तद॒हं व᳚श्मि पवमान सोम ॥
पदपाठः (Word-by-word)
अजी᳚तये । अह᳚तये । प॒व॒स्व॒ । स्व॒स्तये᳚ । स॒र्व॑ता᳚तये । बृ॒ह॒ते ।
तत् । उ॒श॒न्ति॒ । विश्वे᳚ । इ॒मे । सखा᳚यः । तत् । अ॒हम् । व॒श्मि॒ । प॒व॒मा॒न॒ । सो॒म॒ ॥
तत् । उ॒श॒न्ति॒ । विश्वे᳚ । इ॒मे । सखा᳚यः । तत् । अ॒हम् । व॒श्मि॒ । प॒व॒मा॒न॒ । सो॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम अजीतये यथा वयंशत्रुभिरजिताभवेम तथा तेषामजयाय अहतये यथा तैर- हताःस्याम तस्यैच अतएव स्वस्तये अविनाशाय । किंच बृहते सर्वतातये सर्वैरिन्द्रादिभि- र्देवैः स्तूयमानाय यज्ञाय एतदर्थं पवस्व अस्मदभिमुखमागच्छ । पविर्गतिकर्मा । विश्वे सर्वे इमे मदीयाः सखायः स्तोतारः तत् त्वदीयं रक्षणमुशन्ति कामयन्ते । हे पवमान- सोम तद्रक्षणं अहमपि वश्मि कामये ॥ ४ ॥