प्रावी᳚विपद्वा॒च ऊ॒र्मिं न सिन्धु॒र्गिर॒ः सोम॒ः पव᳚मानो मनी॒षाः ।
अ॒न्तः पश्य᳚न्वृ॒जने॒माव᳚रा॒ण्या ति᳚ष्ठति वृष॒भो गोषु᳚ जा॒नन् ॥
अ॒न्तः पश्य᳚न्वृ॒जने॒माव᳚रा॒ण्या ति᳚ष्ठति वृष॒भो गोषु᳚ जा॒नन् ॥
पदपाठः (Word-by-word)
प्र । अ॒वी॒वि॒प॒त् । वा॒चः । ऊ॒र्मिम् । न । सिन्धुः᳚ । गिरः᳚ । सोमः᳚ । पव᳚मानः । म॒नी॒षाः ।
अ॒न्तरिति᳚ । पश्य᳚न् । वृ॒जना᳚ । इ॒मा । अव᳚राणि । आ । ति॒ष्ठ॒ति॒ । वृ॒ष॒भः । गोषु᳚ । जा॒नन् ॥
अ॒न्तरिति᳚ । पश्य᳚न् । वृ॒जना᳚ । इ॒मा । अव᳚राणि । आ । ति॒ष्ठ॒ति॒ । वृ॒ष॒भः । गोषु᳚ । जा॒नन् ॥
सायणभाष्यम् (Sayana Commentary)
पवमानः सोमः मनीषाः मनसईशिताः हृदयंगमाः गिरः स्तुतीः प्रावीविपत् प्रकर्षेण- वपयति प्रेरयति । कथमिव सिन्धुः स्यन्दमानानदीव वाचः शब्दस्य ऊर्मिन संघंयथा प्रेर- यति तद्वत् । किंच वृषभः कामानामुदकानांवा वर्षकः सोमः अन्तः अन्तर्हितं वस्तुजातं पश्यन् अवराणि दुर्बलैर्वारयितुमशक्यानि इमा वृजना इमानि बलानि आतिष्ठति आसी- दति । किंकुर्वन् गोषुजानन् गवांजानानःसन् परबलानि प्रविशति ॥ ७ ॥