श्रवणम्

9.96.19 समानपद
च॒मू॒षच्छ्ये॒नः श᳚कु॒नो वि॒भृत्वा᳚ गोवि॒न्दुर्द्र॒प्स आयु᳚धानि॒ बिभ्र᳚त् ।
अ॒पामू॒र्मिं सच᳚मानः समु॒द्रं तु॒रीयं॒ धाम᳚ महि॒षो वि᳚वक्ति ॥
▶ पदपाठः (Word-by-word)
च॒मू॒॑सत् । श्ये॒नः । श॒कु॒नः । वि॒॑भृत्वा᳚ । गो॒॑वि॒न्दुः । द्र॒प्सः । आयु᳚धानि । बिभ्र᳚त् ।
अ॒पाम् । ऊ॒र्मिम् । सच᳚मानः । स॒मु॒द्रम् । तु॒रीय᳚म् । धाम᳚ । म॒हि॒षः । वि॒व॒क्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चमूषत् चमन्ति भक्षयंत्यत्रेति चम्वश्चमसाः तेषु सीदन् यद्वा चम्वौ अधिषवणफलके तयोर्वर्तमानः श्येनः शंसनीयः शकुनः शक्तः सामर्थ्यकारी विभृत्वा हरतेः आतोमनिन्नि- त्यादिनाक्वनिप् । पात्रेषु विहरणशीलः गोविन्दुः यजमानानां गवां लंभकः विन्दुरिच्छुरिति उप्रत्ययान्तत्वेननिपातितः द्रप्सः द्रवणशीलः आयुधानि स्फ्यकपालादीनि बिभ्रत् धारयन् अपामुदकानामूर्मि प्रेरकं समुद्रं अन्तरिक्षनामैतत् अन्तरिक्षलोकं सचमानः सेवमानः महि- षोमहान् यएवंविधः सोमः ससोमः तुरीयं चतुर्थंधाम चान्द्रमसंस्थानं विवक्ति सेवते । सूर्यलोकस्योपरि चंद्रमसोलोकोविद्यतेइति—यमःपृथिव्याअधिपतिः समावत्वित्यादिभिः चन्द्रमानक्षत्राणामधिपतिः समावत्वित्यन्तैर्मंत्रैर्ज्ञायते ॥ १९ ॥