श्रवणम्

9.96.12
यथाप᳚वथा॒ मन᳚वे वयो॒धा अ᳚मित्र॒हा व᳚रिवो॒विद्ध॒विष्मा᳚न् ।
ए॒वा प᳚वस्व॒ द्रवि᳚णं॒ दधा᳚न॒ इन्द्रे॒ सं ति᳚ष्ठ ज॒नयायु᳚धानि ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । अप᳚वथाः । मन᳚वे । व॒यः॒॑धाः । अ॒मि॒त्र॒॑हा । व॒रि॒वः॒॑वित् । ह॒विष्मा᳚न् ।
ए॒व । प॒व॒स्व॒ । द्रवि᳚णम् । दधा᳚नः । इन्द्रे᳚ । सम् । ति॒ष्ठ॒ । ज॒नय᳚ । आयु᳚धानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम यथा पुरा त्वं मनवेराज्ञे वयोधाः अन्नस्यधाता तथा अमित्रहा शत्रूणांहन्ता वरिवोदित् धनस्यलंभयिता हविष्मान् पुरोडाशादियुक्तःसन् अपवथाः तस्मैधनादिकं प्रदातुंयथागच्छः एव एवमस्मभ्यमपि द्रविणं धनं दधानः प्रयच्छन् पवस्व अस्मदभिमुख- मागच्छ । किंच अस्माभिर्दीयमानस्त्वं इन्द्रेसन्तिष्ठ सम्यक् तिष्ठ । अपिच आयुधानि त्वदी- यानि जनय तस्मै प्रकाशय वाक्यभेदादनिघातः ॥ १२ ॥