पव᳚स्वेन्दो॒ पव᳚मानो॒ महो᳚भि॒ः कनि᳚क्रद॒त्परि॒ वारा᳚ण्यर्ष ।
क्रीळ᳚ञ्च॒म्वो॒३॒᳚रा वि᳚श पू॒यमा᳚न॒ इन्द्रं᳚ ते॒ रसो᳚ मदि॒रो म᳚मत्तु ॥
क्रीळ᳚ञ्च॒म्वो॒३॒᳚रा वि᳚श पू॒यमा᳚न॒ इन्द्रं᳚ ते॒ रसो᳚ मदि॒रो म᳚मत्तु ॥
पदपाठः (Word-by-word)
पव᳚स्व । इ॒न्दो॒ इति᳚ । पव᳚मानः । महः᳚॑भिः । कनि᳚क्रदत् । परि᳚ । वारा᳚णि । अ॒र्ष॒ ।
क्रीळ᳚न् । च॒म्वोः᳚ । आ । वि॒श॒ । पू॒यमा᳚नः । इन्द्र᳚म् । ते॒ । रसः᳚ । म॒दि॒रः । म॒म॒त्तु॒ ॥
क्रीळ᳚न् । च॒म्वोः᳚ । आ । वि॒श॒ । पू॒यमा᳚नः । इन्द्र᳚म् । ते॒ । रसः᳚ । म॒दि॒रः । म॒म॒त्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो सोम महोभिः पूजकैरृत्विग्भिः पवमानः पूयमानस्त्वं पवस्व । ततः कनि- क्रदत् भृशंशब्दंकुर्वन् वाराणि अवेर्वालानि पवित्राणि पर्यर्ष परिगच्छ । किंच पूयमानस्त्वं चम्वोरधिषवणफलकयोः क्रीळन् संक्रीडमानःसन् आविश पात्राणि प्रविश । अनन्तरं मदिरः मदकरस्ते त्वदीयोरसःइन्द्रं ममत्तु मोदयतु माद्यतेः बहुलंछन्दसीतिश्लुः ॥ २१ ॥