स पू॒र्व्यो व᳚सु॒विज्जाय᳚मानो मृजा॒नो अ॒प्सु दु᳚दुहा॒नो अद्रौ᳚ ।
अ॒भि॒श॒स्ति॒पा भुव᳚नस्य॒ राजा᳚ वि॒दद्गा॒तुं ब्रह्म᳚णे पू॒यमा᳚नः ॥
अ॒भि॒श॒स्ति॒पा भुव᳚नस्य॒ राजा᳚ वि॒दद्गा॒तुं ब्रह्म᳚णे पू॒यमा᳚नः ॥
पदपाठः (Word-by-word)
सः । पू॒र्व्यः । व॒सु॒॑वित् । जाय᳚मानः । मृ॒जा॒नः । अ॒प्॑सु । दु॒दु॒हा॒नः । अद्रौ᳚ ।
अ॒भि॒श॒स्ति॒॑पाः । भुव᳚नस्य । राजा᳚ । वि॒दत् । गा॒तुम् । ब्रह्म᳚णे । पू॒यमा᳚नः ॥
अ॒भि॒श॒स्ति॒॑पाः । भुव᳚नस्य । राजा᳚ । वि॒दत् । गा॒तुम् । ब्रह्म᳚णे । पू॒यमा᳚नः ॥
सायणभाष्यम् (Sayana Commentary)
पूर्व्यः पुराणः यद्वा पूर्वैःकृतोभिषुतः वसुवित् धनानांलंभकः जायमानः अप्सु वसती- वर्याख्येषूदकेषु मृजानोमृज्यमानः अद्रौ अभिषवग्रावणि दुदुहानोदुह्यमानः अभिशस्तिपाः अभितः शस्तिर्हिसा येषां तेअभिशस्तयः शत्रवः तेभ्यः परिरक्षकः भुवनस्य भूतजातस्य राजा स्वामी एवंविधः सतादृशः सोमः ब्रह्मणे कर्मार्थं पूयमानः सन् गातुं मार्गं समी- चीनं विदत् यजमानेभ्यः प्रयच्छति ॥ १० ॥ महापितृयज्ञेपितरः सोमवन्तइत्यस्य द्वितीयानुवाक्या त्वयाहिनः पितरइत्येषा । सूत्रितंच—पितरोग्निष्वात्तायम उदीरतामवरउत्परासस्त्वयाहिनःपितरः सोमपूर्वइति ।