श्रवणम्

9.96.15
ए॒ष स्य सोमो᳚ म॒तिभि᳚ः पुना॒नो॑त्यो॒ न वा॒जी तर॒तीदरा᳚तीः ।
पयो॒ न दु॒ग्धमदि᳚तेरिषि॒रमु॒र्वि᳚व गा॒तुः सु॒यमो॒ न वोळ्हा᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । सोमः᳚ । म॒ति॑भिः᳚ । पु॒ना॒नः । अत्यः᳚ । न । वा॒जी । तर᳚ति । इत् । अरा᳚तीः ।
पयः᳚ । न । दु॒ग्धम् । अदि᳚तेः । इ॒षि॒रम् । उ॒रु॑इ᳚व । गा॒तुः । सु॒॑यमः᳚ । न । वोळ्हा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषस्यः एतादृशः सोमः मतिभिर्मननसाधनैः स्तोत्रैः पुनानः पूयमानोभवति । यः सोमः अत्योन अतनशीलओवाजी अश्वइव संग्रामे अरातीः अरातीन् शत्रून् तरति इदव- धारणे तरत्येव हिनस्त्येव । यद्वृत्तयोगादनिघातः । किंच अदितेर्गोनामैतत् अदीनायाः गोः इषिरं अन्वे षणीयं दुग्धंपयोन क्षीरं यथा पूतं भवति एवं सोमः परिशुद्धः । अपिच उर्विव् सुपांसुलुगिति सोर्लुक् । उरुविस्तीर्णो गातुः मार्गइव सर्वैः समाश्रयणीयः तथा वोह्ळान वोढाअश्वइव सुयमः सुष्ठुनियन्तुं शक्योयथाभवति तद्वतयंसोमः सोतृभि- र्नियन्तव्योभवति ॥ १५ ॥