मर्यो॒ न शु॒भ्रस्त॒न्वं᳚ मृजा॒नो॑त्यो॒ न सृत्वा᳚ स॒नये॒ धना᳚नाम् ।
वृषे᳚व यू॒था परि॒ कोश॒मर्ष॒न्कनि᳚क्रदच्च॒म्वो॒३॒᳚रा वि᳚वेश ॥
वृषे᳚व यू॒था परि॒ कोश॒मर्ष॒न्कनि᳚क्रदच्च॒म्वो॒३॒᳚रा वि᳚वेश ॥
पदपाठः (Word-by-word)
मर्यः᳚ । न । शु॒भ्रः । त॒न्व᳚म् । मृ॒जा॒नः । अत्यः᳚ । न । सृत्वा᳚ । स॒नये᳚ । धना᳚नाम् ।
वृषा᳚॑इव । यू॒था । परि᳚ । कोश᳚म् । अर्ष᳚न् । कनि᳚क्रदत् । च॒म्वोः᳚ । आ । वि॒वे॒श॒ ॥
वृषा᳚॑इव । यू॒था । परि᳚ । कोश᳚म् । अर्ष᳚न् । कनि᳚क्रदत् । च॒म्वोः᳚ । आ । वि॒वे॒श॒ ॥
सायणभाष्यम् (Sayana Commentary)
शुभ्रोदीप्यमानोलंकृतः मर्योन मनुष्यइव तन्वमात्मीयंशरीरं मृजानः वसतीवरीभिःशो- धयन् किंच धनानां सनये संभजनाय लाभाय अत्योन अतनशीलोश्वइव सृत्वा सरण- शीलः अपिच वृषेव वृषा यथा यूथा यूथानि प्रतिगच्छन् शब्दंकरोति तद्वत् कोशं अधि- षवणचर्मणा कृतंपात्रं परि अर्षन् प्रतिगच्छन् सोमः कनिक्रदत् पुनःपुनः शब्दं कुर्वन् चम्वोः अधिषवणफलकयोराविवेश आविशति । कनिक्रदत् क्रदेर्यङ्लुकि दाधर्तिदर्धर्तीत्या- दिनानिपातनादभ्यासस्य निगागमः तस्यशतरि अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ २० ॥