श्रवणम्

9.96.17
शिशुं᳚ जज्ञा॒नं ह᳚र्य॒तं मृ᳚जन्ति शु॒म्भन्ति॒ वह्निं᳚ म॒रुतो᳚ ग॒णेन᳚ ।
क॒विर्गी॒र्भिः काव्ये᳚ना क॒विः सन्त्सोमः᳚ प॒वित्र॒मत्ये᳚ति॒ रेभ᳚न् ॥
▶ पदपाठः (Word-by-word)
शिशु᳚म् । ज॒ज्ञा॒नम् । ह॒र्य॒तम् । मृ॒ज॒न्ति॒ । शु॒म्भन्ति᳚ । वह्नि᳚म् । म॒रुतः᳚ । ग॒णेन᳚ ।
क॒विः । गीः॒॑भिः । काव्ये᳚न । क॒विः । सन् । सोमः᳚ । प॒वित्र᳚म् । अति᳚ । ए॒ति॒ । रेभ᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शिशुं इदानीमुत्पन्नत्वात् शिशुवत् तिष्ठन्तं यद्वा पापानि तनूकुर्वन्तं विनाशयन्तंजज्ञानं प्रा- दुर्भूर्त अतएवहर्यतं हर्यगतिकान्त्योः । भृमृदृशीत्यादिनाअतच् । सर्वैः काम्यमानं सोमं मृज न्ति मरुतः शोधयन्ति । किंच वह्निं वोढारं सोमं गणेनात्मीयेन सप्तसंख्याकेनगणेन शुं- भन्ति अलंकुर्वन्ति । ततः कविः क्रान्तप्रज्ञः सोमः काव्येन कविकर्मणैव कविः शब्दोपेतः सन् रेभन् शब्दायमानः गीर्भिः स्तुतिभिः सह पवित्रं अत्येति अतीत्यगच्छति ॥ १७ ॥