इ॒दं व᳚सो सु॒तमन्ध॒ः पिबा॒ सुपू᳚र्णमु॒दर᳚म् ।
अना᳚भयिन्ररि॒मा ते᳚ ॥
अना᳚भयिन्ररि॒मा ते᳚ ॥
पदपाठः (Word-by-word)
इ॒दम् । व॒सो॒ इति᳚ । सु॒तम् । अन्धः᳚ । पिब᳚ । सु॑पू᳚र्णम् । उ॒दर᳚म् ।
अना᳚भयिन् । र॒रि॒म । ते॒ ॥
अना᳚भयिन् । र॒रि॒म । ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे वसो वासयितरिन्द्र इदं पुरोवर्तमानं सुतमभिषुतं अन्धोन्नं सोमलक्षणं पिब यथा उदरं त्वदीयं जठरं सुपूर्णं अतिशयेन संपूर्ण भवति तथेत्यर्थः । हे अनाभयिन् आसमन्ताद्विभेतीत्याभयी बिभेतेरौणादिकइनिः न आभयी अनाभयी तादृश हे इन्द्र ते तुभ्यं त्वदर्थं ररिम उक्तलक्षणं सोमं दद्मः रादाने छान्दसोलिट् ॥ १ ॥