इन्द्र॒ इत्सो᳚म॒पा एक॒ इन्द्र᳚ः सुत॒पा वि॒श्वायु᳚ः ।
अ॒न्तर्दे॒वान्मर्त्या{4}᳚श्च ॥
अ॒न्तर्दे॒वान्मर्त्या{4}᳚श्च ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । इत् । सो॒म॒॑पाः । एकः᳚ । इन्द्रः᳚ । सु॒त॒॑पाः । वि॒श्व॑आ᳚युः ।
अ॒न्तः । दे॒वान् । मर्त्या᳚न् । च॒ ॥
अ॒न्तः । दे॒वान् । मर्त्या᳚न् । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रइत् इन्द्रएकएव देवान्मर्त्यान्मनुष्यांश्च अन्तर्मध्ये देवेषु मनुष्येषु च मध्ये सोमपाः कृत्स्रस्य सोमस्य पाता नान्ये । तेत्द्येकदेशभाजः अतएव सुतपाः सुतस्याभिषुतस्यास्मदीयस्य सोमस्य कार्त्स्र्येन पाता इन्द्रएकएव विश्वायुः सचेन्द्रः सर्वान्नोभवति धानाकरंभादिहवींपि सवनेष्विन्द्रायैव हूयन्ते तदभिप्रायेणेदमुच्यते अतएवंविधइन्द्रः अस्मदीयं हविः स्वीकरोत्वित्यर्थः ॥ ४ ॥