स्वा॒दव॒ः सोमा॒ आ या᳚हि श्री॒ताः सोमा॒ आ या᳚हि ।
शिप्रि॒न्नृषी᳚व॒ः शची᳚वो॒ नायमच्छा᳚ सध॒माद᳚म् ॥
शिप्रि॒न्नृषी᳚व॒ः शची᳚वो॒ नायमच्छा᳚ सध॒माद᳚म् ॥
पदपाठः (Word-by-word)
स्वा॒दवः᳚ । सोमाः᳚ । आ । या॒हि॒ । श्री॒ताः । सोमाः᳚ । आ । या॒हि॒ ।
शिप्रि᳚न् । ऋषि᳚॑वः । शची᳚॑वः । न । अ॒यम् । अच्छ᳚ । स॒ध॒॑माद᳚म् ॥
शिप्रि᳚न् । ऋषि᳚॑वः । शची᳚॑वः । न । अ॒यम् । अच्छ᳚ । स॒ध॒॑माद᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे श्किप्रिन् शिप्रं शिरस्त्रणं यद्वा शिप्रेहनूनासिकेवा तद्वन् हे ऋषीवः ऋषिभिः स्तोतृभिर्युक्त शचीवः शक्तिमन् एवंभूत हेइन्द्र अस्मदीयाः इमे सोमाः स्वादवः अभिषवादिभिः संस्कृतत्वेन आस्वदनार्हा जाताः अतस्त्वमायाहि आगच्छ । तथा ते सोमाः श्रीताः पयआदिभिः श्रयणद्रव्यैः मिश्रिताः संस्कृताः अतोप्यायाह्यागच्छ नेतिसम्प्रत्यर्थे न सम्प्रत्ययं स्तोता सधमादं सहमादयितव्यं त्वां अच्छाभिमुखं स्तौतीतिशेषः अतोप्यायाहीत्यर्थः ॥ २८ ॥