पाता᳚ वृत्र॒हा सु॒तमा घा᳚ गम॒न्नारे अ॒स्मत् ।
नि य᳚मते श॒तमू᳚तिः ॥
नि य᳚मते श॒तमू᳚तिः ॥
पदपाठः (Word-by-word)
पाता᳚ । वृ॒त्र॒॑हा । सु॒तम् । आ । घ॒ । ग॒म॒त् । न । आ॒रे । अ॒स्मत् ।
नि । य॒म॒ते॒ । श॒तम्॑ऊ᳚तिः ॥
नि । य॒म॒ते॒ । श॒तम्॑ऊ᳚तिः ॥
सायणभाष्यम् (Sayana Commentary)
सुतमभिषुतं सोमं पाता पानशीलः ताच्छीलिकस्तृन् नलोकाव्ययेति कर्मणिषष्ठयाःप्रतिषेधः वृत्रः वृत्रस्यासुरस्यहन्ता इन्द्रः आगमत् घेत्यवधारणे आगच्छत्वेव अस्मत् अस्मत्तः आरेदूरदेशे माभवतु आगत्यच शतमूतिः बहुविधरक्षणः इन्द्रः नियमते अस्मदीयान् शत्रून् नियच्छतु तिरस्करोतु यद्वा धनान्यस्मभ्यं नियच्छतु ददातु ॥ २६ ॥