श्रवणम्

8.2.34
ए॒ष ए॒तानि᳚ चका॒रेन्द्रो॒ विश्वा॒ यो॑ति᳚ शृ॒ण्वे ।
वा॒ज॒दावा᳚ म॒घोना᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । ए॒तानि᳚ । च॒का॒र॒ । इन्द्रः᳚ । विश्वा᳚ । यः । अति᳚ । शृ॒ण्वे ।
वा॒ज॒॑दावा᳚ । म॒घोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषइन्द्रः विश्वा विश्वानि व्याप्तानि एतानि वृत्रवधादीनि वीर्याणि यद्वा पृथिव्यादीनि भूतजातानि चकार कृतवान् यइन्द्रोबलैरतिश- यितः शृण्वे श्रूयते सर्वत्र स्तूयते अपिच सइन्द्रोमघोनां हविष्मतां यजमानानां वाजदावा वाजस्यान्नस्य दाता भवति ॥ ३४ ॥