ओ षु प्र या᳚हि॒ वाजे᳚भि॒र्मा हृ᳚णीथा अ॒भ्य१॒᳚स्मान् ।
म॒हा{4} इ᳚व॒ युव᳚जानिः ॥
म॒हा{4} इ᳚व॒ युव᳚जानिः ॥
पदपाठः (Word-by-word)
ओ इति᳚ । सु । प्र । या॒हि॒ । वाजे᳚भिः । मा । हृ॒णी॒थाः॒ । अ॒भि । अ॒स्मान् ।
म॒हान्॑इ᳚व । युव᳚॑जानिः ॥
म॒हान्॑इ᳚व । युव᳚॑जानिः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र वाजेभिर्वाजैः अस्मभ्यं दातव्यैरन्नैः सार्धं अस्मानाभिमुख्येन सु सुष्ठु प्रकर्षेण ओ आउ याहि शीघ्रमायात्द्येव आगच्छैव माहृणीथः माक्रुध्यस्व हृणीयतिः क्रुध्यतिकर्मा यद्वा मा लज्जां प्राप्नुहि हृणीङ् लज्जायामिति कंड्वादौ पठ्यते । तत्रदृष्टान्तः – महाँइव युवजानिः युवतिर्जाया सस्यसतथोक्तः जायायानिङिति समासान्तोनिङादेशः । ईदृशोमहान् गुणैरधिकोपि यथा स्वभार्यां प्रति निर्लज्जःसन् शीघ्रं गच्छति तद्वत् ॥ १९ ॥