श्रवणम्

8.2.37
यज᳚ध्वैनं प्रियमेधा॒ इन्द्रं᳚ स॒त्राचा॒ मन᳚सा ।
यो भूत्सोमै᳚ः स॒त्यम᳚द्वा ॥
▶ पदपाठः (Word-by-word)
यज᳚ध्व । ए॒न॒म् । प्रि॒य॒॑मे॒धाः॒ । इन्द्र᳚म् । स॒त्राचा᳚ । मन᳚सा ।
यः । भूत् । सोमैः᳚ । स॒त्य॑म᳚द्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रियमेधाः प्रियः अनुकूलः मेधोयज्ञोयेषां ते तथोक्ताः आत्मनि पूजार्थं बहुवचनं प्रियमेधाख्यऋषिरात्मानं संबोध्य ब्रूते हे प्रियमेधाः सत्राचा सहांचता स्तोतव्येनेन्द्रेण सह वर्तमानेन मनसा चित्तेन यएनमिन्द्रं यजध्व यजध्वं बुद्धिपूर्वकं यजेत्यर्थः यजध्वैनमिति निपात- नाद्वर्णलोपः यइन्द्रः सोमैः करणभूतैः सत्यमद्वा भूत् सत्यमदः अवितथमदोभवति ॥ ३७ ॥