श्रवणम्

8.2.10
इ॒मे त᳚ इन्द्र॒ सोमा᳚स्ती॒व्रा अ॒स्मे सु॒तासः᳚ ।
शु॒क्रा आ॒शिरं᳚ याचन्ते ॥
▶ पदपाठः (Word-by-word)
इ॒मे । ते॒ । इ॒न्द्र॒ । सोमाः᳚ । ती॒व्राः । अ॒स्मे इति᳚ । सु॒तासः᳚ ।
शु॒क्राः । आ॒॑शिर᳚म् । या॒च॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदीया इमे सोमाः तीव्रास्तीव्रमदाः अस्मे अस्माभिरध्वर्युभिः सुतासोभिषुताः शुक्राः शुद्धाः सन्तः आशीरं क्षीरादिकं श्रयणद्रव्यं त्वां याचन्ते तान् श्रीणीहीत्युत्तरत्रान्वयः ॥ १० ॥