श्रवणम्

8.2.11
ता{4} आ॒शिरं᳚ पुरो॒ळाश॒मिन्द्रे॒मं सोमं᳚ श्रीणीहि ।
रे॒वन्तं॒ हि त्वा᳚ शृ॒णोमि᳚ ॥
▶ पदपाठः (Word-by-word)
तान् । आ॒॑शिर᳚म् । पु॒रो॒ळाश᳚म् । इन्द्र᳚ । इ॒मम् । सोम᳚म् । श्री॒णी॒हि॒ ।
रे॒वन्त᳚म् । हि । त्वा॒ । शृ॒णोमि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तान्पूर्वोक्तान सोमान् आशिरं श्रयणद्रव्यञ्च क्षीरादिकं श्रीणीहि मिश्रय यागार्थं त्दनन्तरं पुरोळाशं धानाकरंभादिलक्षणं सवनीयपुरोडाशं इमं अस्मदीयं सोमं च श्रीणीहि मिश्रय प्रथमं भक्षितं पुरोळाशं पश्चात्पीतेन सोमेन संयोजयेत्यर्थः तवप्रार्थने कोहेतुरिति चेत् हि यस्मात् रेवन्तं रयिमन्तं रयेर्मतौबहुलमिति सम्प्रसारणम् बहुलधनं वां शृणोमि त्वं बहुधनइति सर्वत्रश्रूयते अतः कारणात् त्वामेव प्रार्थयामहे ॥ ११ ॥