न घे᳚म॒न्यदा प᳚पन॒ वज्रि᳚न्न॒पसो॒ नवि᳚ष्टौ ।
तवेदु॒ स्तोमं᳚ चिकेत ॥
तवेदु॒ स्तोमं᳚ चिकेत ॥
पदपाठः (Word-by-word)
न । घ॒ । ई॒म् । अ॒न्यत् । आ । प॒प॒न॒ । वज्रि᳚न् । अ॒पसः᳚ । नवि᳚ष्टौ ।
तव᳚ । इत् । ऊं॒ इति᳚ । स्तोम᳚म् । चि॒के॒त॒ ॥
तव᳚ । इत् । ऊं॒ इति᳚ । स्तोम᳚म् । चि॒के॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे वज्रिन् वज्रवन्निन्द्र अपसः अपस्विनः कर्मवतस्तव सम्बन्धिनि नविष्टौ अभिनवे यागे वर्तमानोहं अन्यत् त्वद्विषयादन्यत् स्तोत्रं नघेम् नैव आपपन अभिष्टौमि पनतेः स्तुतिकर्मणउत्तमे णलि लिटि रूपम् । अपितु तवेदु तवैव स्तोमं स्तोत्रं चिकेत अभिजानामि त्वामेव सर्वदा स्तौमीत्यर्थः ॥ १७ ॥