श्रवणम्

8.2.24
यो वेदि᳚ष्ठो अव्य॒थिष्वश्वा᳚वन्तं जरि॒तृभ्य᳚ः ।
वाजं᳚ स्तो॒तृभ्यो॒ गोम᳚न्तम् ॥
▶ पदपाठः (Word-by-word)
यः । वेदि᳚ष्ठः । अ॒व्य॒थिषु᳚ । अश्व᳚॑वन्तम् । ज॒रि॒तृ॑भ्यः᳚ ।
वाज᳚म् । स्तो॒तृ॑भ्यः᳚ । गो॑म᳚न्तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः अव्यथिषु अव्यथयितृषु सुखकरेषु स्तोतृषु वेदिष्ठःअतिशयेन वेदिता कृतस्य स्तोत्रस्य ज्ञाता सइन्द्रोजरितृभ्यः शंसितृभ्योहोत्रा- दिभ्यः प्रस्तोत्रादिभ्यश्च अश्वावन्तं बहुभिरश्वैरुपेतं गोमन्तं बहुभिर्गोभिरुपेतं सन्तं वाजमन्नं बलं वा ददातीतिशेषः ॥ २४ ॥ अहीनान्तर्गतेतिरात्रे प्रथमेपर्याये होतुःशस्त्रे पन्यंपन्यमितिस्तोत्रियस्तृचः छन्दोगैरस्य तृचस्य स्तूयमानत्वात् छन्दोगप्रत्ययं स्तोमस्तोत्रियइतिहि स्मर्यते ।