श्रवणम्

8.2.9
शुचि᳚रसि पुरुनि॒ःष्ठाः क्षी॒रैर्म᳚ध्य॒त आशी᳚र्तः ।
द॒ध्ना मन्दि᳚ष्ठ॒ः शूर᳚स्य ॥
▶ पदपाठः (Word-by-word)
शुचिः᳚ । अ॒सि॒ । पु॒रु॒निः॒॑स्थाः । क्षी॒रैः । म॒ध्य॒तः । आ॑शी᳚र्तः ।
द॒ध्ना । मन्दि᳚ष्ठः । शूर᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं शुचिरसि दशापवित्रेण शोधितोभवसि सत्वं पुरुनिष्ठाः पुरुषु बहुषु पात्रेषु ग्रहचमसादिषु निःशेषेणस्थाता मध्यतोमध्ये मैत्रावरुणग्रहादौ क्षीरैः पयःप्रभृतिभिः श्रयणद्रव्यैः आशीर्तः मिश्रणेन संस्कृतः तृतीयसवने दध्नाच आशीर्तः एवंभूतस्त्वं शूरस्य विक्रा- न्तस्येन्द्रस्य मन्दिष्ठः मादयितृतमोभव ॥ ९ ॥