श्रवणम्

8.2.35
प्रभ᳚र्ता॒ रथं᳚ ग॒व्यन्त᳚मपा॒काच्चि॒द्यमव᳚ति ।
इ॒नो वसु॒ स हि वोळ्हा᳚ ॥
▶ पदपाठः (Word-by-word)
प्र॑भ᳚र्ता । रथ᳚म् । ग॒व्यन्त᳚म् । अ॒पा॒कात् । चि॒त् । यम् । अव᳚ति ।
इ॒नः । वसु᳚ । सः । हि । वोळ्हा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रभर्ता प्रहर्ता प्रहरणशीलइन्द्रः रथं रंहणं गव्यन्तं गाइच्छन्तं यं स्तोतारं अपाकात् अविपक्वप्रज्ञात् शत्रोः चिच्छब्दोनुक्तसमुच्चयार्थः विप- क्वप्रज्ञादपि अवति रक्षति सहि सखलु स्तोता इनईश्वरः सन् वसु धनं वोह्ळा साधुवाही भवति । वहेः साधुकारिणितृन् अतोनलोका- व्ययेतिकर्मणिषष्ठ्याः प्रतिषेधः ॥ ३५ ॥