श्रवणम्

8.2.21
वि॒द्मा ह्य᳚स्य वी॒रस्य᳚ भूरि॒दाव᳚रीं सुम॒तिम् ।
त्रि॒षु जा॒तस्य॒ मनां᳚सि ॥
▶ पदपाठः (Word-by-word)
वि॒द्म । हि । अ॒स्य॒ । वी॒रस्य᳚ । भू॒रि॒॑दाव᳚रीम् । सु॒॑म॒तिम् ।
त्रि॒षु । जा॒तस्य᳚ । मनां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य वीरस्य विक्रान्त्स्य भूरिदावरीं बहुधनस्य दात्रीं सुमतिं कल्याणीं मतिं अनुग्रहबुद्धिं विद्माहि जानीमः खलु । तथा त्रिषु भूम्यादिषु त्रिषु लोकेषु जातस्य तत्कार्यार्थं प्रादुर्भूतस्य मनांसि हृदयानि च जानीमः अतस्तस्येन्द्रस्य यथा प्रीतिर्जनिष्यते तथा स्तोत्रं कर्मइत्यर्थः ॥ २१ ॥