श्रवणम्

8.2.25
पन्य᳚म्पन्य॒मित्सो᳚तार॒ आ धा᳚वत॒ मद्या᳚य ।
सोमं᳚ वी॒राय॒ शूरा᳚य ॥
▶ पदपाठः (Word-by-word)
पन्य᳚म्॑पन्यम् । इत् । सो॒ता॒रः॒ । आ । धा॒व॒त॒ । मद्या᳚य ।
सोम᳚म् । वी॒राय᳚ । शूरा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोतारः अभिषोतारोध्वर्यवः मद्याय मादयितव्याय वीराय विक्रान्ताय शूरायशौर्यवतइन्द्राय पन्यंपन्यमित् सर्वत्र स्तुत्यमेव सोमं आधावत अभिगमयत प्रयच्छतेत्यर्थः ॥ २५ ॥