स्तुत᳚श्च॒ यास्त्वा॒ वर्ध᳚न्ति म॒हे राध᳚से नृ॒म्णाय᳚ ।
इन्द्र᳚ का॒रिणं᳚ वृ॒धन्त᳚ः ॥
इन्द्र᳚ का॒रिणं᳚ वृ॒धन्त᳚ः ॥
पदपाठः (Word-by-word)
स्तुतः᳚ । च॒ । याः । त्वा॒ । वर्ध᳚न्ति । म॒हे । राध᳚से । नृ॒म्णाय᳚ ।
इन्द्र᳚ । का॒रिण᳚म् । वृ॒धन्तः᳚ ॥
इन्द्र᳚ । का॒रिण᳚म् । वृ॒धन्तः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र कारिणं कर्मणां कर्तारं वृधन्तोवर्धयन्तः ये स्तुतः स्तोतारः याश्च तदीयाः स्तुतयः त्वा त्वां वर्धन्ति वर्धयन्ति किमर्थं महे महते राधसे धनाय नृम्णाय बलाय च उभयोर्लाभार्थं तदुभयं लभन्तइत्यध्याहारः यद्वोत्तरत्र ते सत्रादधिरेशवांसीतिसबन्धः ॥ २९ ॥