श्रवणम्

8.2.18
इ॒च्छन्ति᳚ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना᳚य स्पृहयन्ति ।
यन्ति᳚ प्र॒माद॒मत᳚न्द्राः ॥
▶ पदपाठः (Word-by-word)
इ॒च्छन्ति᳚ । दे॒वाः । सु॒न्वन्त᳚म् । न । स्वप्ना᳚य । स्पृ॒ह॒य॒न्ति॒ ।
यन्ति᳚ । प्र॒॑माद᳚म् । अत᳚न्द्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवन्तं सोमाभिषवं कुर्वन्तं यजमानं देवाः इन्द्रादयः सर्वे इच्छन्ति रक्षितुं स्वप्नायेन स्पृहयन्ति स्वप्नावस्थांगतस्य सुन्वतोनेप्सन्ति सर्वदा प्रबुद्धमेव कुर्वन्तीत्यर्थः स्पृहेरीप्सितइतिकर्मणि चतुर्थी स्पृहईप्सायां चुरादिरदन्तः यतएवं अतःकारणात् अतन्द्राः अनलसादेवाः प्रमादं प्रकर्षेण मदकरं तदीयं सोमं यन्ति प्राप्नुवन्ति ॥ १८ ॥